सामग्री पर जाएँ

मुखपुटम्

विकिसूक्तिः तः


विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७७३ पृष्ठानां सङ्ग्रहः विद्यते ।

बुधवासरः, जुलै १०, २०२४; समयः- १९:४७ UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

अद्यतनी वेदसूक्तिः

मा क्रुधः ॥ (अथर्ववेदः ११-२-२०)

कुपितः मा भव ।








इयं नः गीर्वाणी...

यूरोपदेशस्य संस्कृतसाहित्यविषये बौद्धिकम् ऋणं नूनम् अत्यधिकमस्ति । आगामिनि काले अस्य वृध्दिः सम्भावनीया । इदानीं तु यूरोपदेशीयाः वयम् अस्माकं वर्णमालायाः पूरणे एव मन्दक्रियाः स्मः ।
- प्रो० मेक्डोनेल्






हे चतुर, वद उत्तरम् !

वृक्षस्याग्रे फलं दृष्टं
फलाग्रे वृक्ष एव च।
अकारादिसकारान्तं
यो जानाति स पण्डितः॥

ववृक्षस्य अग्रभागे फलं दृश्यते । पुनः फलस्य अग्रे वृक्षः दृश्यते । अस्य शब्दस्य आदौ अकारः अन्ते सकारश्च विद्यते । यः उत्तरं जानाति सः पण्डितः ।

उत्तरम्

अनानस्







चाटुचणकः

विष्णोरागमनं निशम्य सहसा कृत्वा फणीन्द्रं गुणं
कौपीनं परिधाय चर्म कठिनं शम्भौ पुरो धावति ।
दृष्ट्वा विष्णुरथं सकम्पहृदयः सर्पोऽपतद्भूतले
कृत्तिर्विस्खलिता ह्रिया नतमुखो नग्नो हरः पातुः वः ॥

कदाचित् विष्णुः शिवस्य गृहम् आगतवान् । विष्णोः आगमनं ज्ञात्वा शिवः कठिनचर्म धृत्वा तदुपरि सर्पं रज्जुत्वेन बद्ध्वा स्वागतार्थं वेगेन गतवान् । विष्णोः वाहनं गरुडः खलु ? तं दृष्ट्वा सर्पः नितरां भीतः । ततः सः पलायितवान् । रज्जुरूपस्य सर्पस्य अभावतः शिवस्य कटौ स्थितं चर्म अपतत् । तदा शिवस्य कीदृशी स्थितिः स्यात् इति भवन्तः एव ऊहन्ताम्... । एतया घटनया लज्जाकारणतः अवनतमुखः सन् स्थितः शिवः भवतः सर्वान् पातु ।








भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=17991" इत्यस्माद् प्रतिप्राप्तम्